Arhiva

Archive for ianuarie 2011

Țestoasa cea proastă

8 ianuarie 2011 2 comentarii

Traducerea textului din lecţia 29 de pe acest site.

Dacă apar probleme cu afişarea textului în devanāgarī puteţi instala acest font.

मूर्खः कच्छपः।

एकः कच्छपः आसीत् । सः सरोवरे अवसत् । एकदा निदाघे सरोवरस्य जलम् अशुष्यत् । जलं विना कच्छपः व्याकुलः अभवत् ।

तस्य कच्छपस्य हंसौ मित्रे आस्ताम् । तौ कच्छपं व्याकुलं अपश्यताम् । तं च अपृच्छताम् – „भोः मित्र, किमर्थं व्याकुलः भवसि ? एकः उपायः अस्ति । आवां त्वाम् अन्यत्र नयावः ।”

कच्छपः प्रत्यवदत् – „कथम् एतत् सम्भवति । अहं न खगः । अहं कथं डीये ?”

हंसौ अवदताम् – „आकर्णय, आवां लगुडम् आनयतः । त्वं लगुडस्य मध्यभागं मुखेन धर । तदा आवां लगुडेन सह डीयावहे । परन्तु कृपया मार्गे मा वद, नो चेत् त्वम् अध: पतसि ।”

ते एवम् अकुर्वन् । हंसौ च कच्छपेन सह आकाशे अडीयेताम् । मार्गे ग्रामस्य जनाः एतम् आश्चर्यम् आकाशे अपश्यन् । तत्र च कोलाहलः अभवत् । कोलाहलम् यदा कच्छपः आकर्णयत् तदा सः तस्य कारणम् अपृच्छत् । तदा एव सः अधः अपतत् प्राणं च अत्यजत् ।

Traducere:

Citește mai mult…

Categorii:General Etichete:,